|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.150. अध्यायः 150
Mahabharata - Vana Parva - Chapter Topics
हनुमता भीमंप्रति समग्ररामकथाकथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
हनूमानुवाच। 3-150-0x(2272)(21624)
हृतदारः सह भ्रात्रा पत्नीं मार्गन्स राघवः।
दृष्टवाञ्शैलशिखरे सुग्रीवं वानरर्षभम् ॥ 3-150-1(21625)
तेन तस्याभवत्सख्यं राघवस्य महात्मनः।
स हत्वा वालिनं राज्ये सुग्रीवं प्रत्यपादयत् ॥ 3-150-2(21626)
स राज्यं प्राप्य सुग्रीवः सीतायाः परिमार्गणे।
वानरान्प्रेषयामास शतशोऽथ सहस्रशः ॥ 3-150-3(21627)
ततो वानरकोटीभिः सहितोऽहं नरर्षभ।
सीतां मार्गन्महाबाहो प्रस्थितो दक्षिणां दिशम् ॥ 3-150-4(21628)
ततः प्रवृत्तिः सीताया गृध्रेण सुमहात्मना।
संपातिना समाख्याता रावणस्य निवेशने ॥ 3-150-5(21629)
ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः।
शतयोजनविस्तारमर्णवं सहसा प्लुतः ॥ 3-150-6(21630)
अहं स्ववीर्यादुत्तीर्य सागरं मकरालयम्।
सुतां जनकराजस्य सीतां सुररसुतोपमाम् ॥ 3-150-7(21631)
दृष्टवान्भरतश्रेष्ठ रावणस्य निवेशने।
समेत्य तामहं देवीं वैदेहीं राघवप्रियाम् ॥ 3-150-8(21632)
दग्ध्वा लङ्कामशेषेण सादृप्राकारतोरणाम्।
प्रत्यागतश्चास्य पुनर्नाम तत्रप्रकाश्य वै ॥ 3-150-9(21633)
मद्वाक्यं चावधार्याशु रामो राजीवलोचनः।
अबद्धपूर्वमन्यैश्च बद्ध्वा सेतुं महोदधौ।
वृतो वानरकोटीभिः समुत्तीर्णो महार्णवम् ॥ 3-150-10(21634)
ततो ररामेण वीर्येण हत्वा तान्सर्वराक्षसान्।
रणे तु राक्षसगणं रावणं लोकरावणम् ॥ 3-150-11(21635)
निशाचरेनद्रं हत्वा तु सभ्रातृसुतबान्धवम्।
राज्येऽभिषिच्य लङ्कायां राक्षसेन्द्रं विभीषणम् ॥ 3-150-12(21636)
धार्मिकं भक्तिमन्तं च भक्तानुगतवत्सलः।
प्रत्याहृत्य ततः सीतां नष्टां वेदश्रुतिं यथा ॥ 3-150-13(21637)
तयैव सहितः साध्व्या पत्न्या रामो महायशाः।
गत्वा ततोऽतित्वरितः स्वां पुरीं रघुनन्दनः।
अध्यावसत्ततोऽयोध्यामयोध्यां द्विषतां प्रभुः ॥ 3-150-14(21638)
ततः प्रतिष्ठितो राज्ये रामो नृपतिसत्तमः।
वरं मया याचितोऽसौ रामो राजीवलोचनः ॥ 3-150-15(21639)
यावद्रामकथेयं ते भवेल्लोकेषु शत्रुहन्।
तावज्जीवेयमित्येवं तथाऽस्त्विति च सोब्रवीत् ॥ 3-150-16(21640)
सीताप्रसादाच्च सदा मामिहस्थमरिंदम।
उपतिष्ठन्ति दिव्या हि भोगा भीम यथेप्सिताः ॥ 3-150-17(21641)
दशवर्षसहस्राणि दशवर्षशतानि च।
राज्यं कारितवान्रामस्ततः स्वभवनं गतः ॥ 3-150-18(21642)
तदिहाप्सरसस्तात गन्धर्वाश्च सदाऽनघ।
तस्य वीरस्य चरितं गायन्त्यो रमयन्ति माम् ॥ 3-150-19(21643)
अयं च मार्गो मर्त्यानामगम्यः कुरुनन्दन।
ततोऽहं रुद्धवान्मार्गं तवेमं देवसेवितम् ॥ 3-150-20(21644)
`त्वामनेन पथा यान्तं यक्षो वा राक्षसोपि वा'।
धर्षयेद्वा शपेद्वाऽपि मा कश्चिदिति भारत ॥ 3-150-21(21645)
दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः।
यदर्थमागतश्चासि अत एव सरश्च तत् ॥ 3-150-22(21646)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चाशदधिकशततमोऽध्यायः ॥ 150 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-150-8 समेत्य विदित्वा संभाषणादिना निश्चित्येत्यर्थः ॥ 3-150-9 अस्य रामस्य। तत्र लङ्कायाम् ॥ 3-150-10 अवधार्य निश्चित्य ॥ 3-150-11 लोकरावणं लोकपीडाकरम् ॥ 3-150-14 अयोध्यां योद्धुमशक्याम् ॥ 3-150-18 कारितवान् कृतवान्। स्वार्थे णिच्। स्वभवनं वैकुण्ठम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|